|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.120. अध्यायः 120
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति पेनपोपाख्यानकथनारभ्यः॥ 1 ॥ त्रिशिखरगिर्याश्रमवासिने सुमित्रनाम्ने विप्रवराय आङ्गिरसेनैकस्या गोर्दानम्॥ 2 ॥ तस्या वंशेऽसङ्ख्येयानां गवां सम्भवः॥ 3 ॥ सुमित्रेण वत्समुखोद्गतक्षीरफेनपानात्फेनप इति नामाधिगमः॥ 4 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`युधिष्ठिर उवाच।
कः फेनपेति नाम्नाऽसौ कथं वा भक्षितः पुरा।
मृत उज्जीवितः कस्मात्कथं गोलोकमाश्रितः॥ 13-120-1(86103)
विरुद्वे मानुषे लोके तथा समयवर्त्मसु।
क्रते दैवं हि दुष्प्रपं मानुषेषु विशेषतः।
संशयो मे महानत्र तन्मे व्याख्यातुमर्हसि॥ भीष्म उवाच। 13-120-2(86104)
श्रूयते भार्गवे वंशे सुमित्रो नाम भारत।
वेदाध्ययनसम्पन्नो विपुले तपसि स्थितः॥ 13-120-3(86105)
वानप्रस्थाश्रमे युक्तः स्वकर्मनिरतः सदा।
विनयाचारतत्वज्ञः सर्वधर्मार्थकोविदः॥ 13-120-4(86106)
यत्नात्त्रिषवणस्नायी संध्योपासनतत्परः।
अग्निहोत्ररतः क्षान्तो जपञ्जुह्वच्च नित्यदाः॥ 13-120-5(86107)
पितृदेवांश्च नियतमतिर्थींश्च स पूजयन्।
प्राणसन्धारणार्थं च यत्किंचिदुपहारयन्॥ 13-120-6(86108)
गिरिस्त्रिशिखरो नाम यतः प्रभवते नदी।
कुलजेति पुराणेषु विश्रुता रुद्रनिर्मिता॥ 13-120-7(86109)
तस्यास्तीरे समे देशे पुष्पमालासमाकुले।
वन्यौषधिद्रुमोपेते नानापक्षिमृगायुते॥ 13-120-8(86110)
व्यपेतदंशमशके ध्वाङ्क्षगृध्रैरसेविते।
कृष्णदर्भतृणप्राये सुरम्ये ज्योतिरश्मिनि॥ 13-120-9(86111)
सर्वोन्नतैः समैः श्यामैर्याज्ञीयैस्तरुभिर्वृते।
तत्राश्रमपदं पुण्यं भृगूणामभवत्पुरा। 13-120-10(86112)
उवास तत्र नियतः सुमित्रो नाम भार्गवः।
यथोद्दिष्टेन पूर्वेषां भृगूणां साधुवर्त्मना॥ 13-120-11(86113)
तस्मा आङ्गिरसः कश्चिद्ददौ गां शर्करीं शुभाम्।
वर्षासु पश्चिमे मासि पौर्णमास्यां शुचिव्रतः॥ 13-120-12(86114)
स तां लब्ध्वा धर्मशीलश्चिन्तयामास तत्परः।
सुमित्रः परया भक्त्या जननीमिव मातरम्॥ 13-120-13(86115)
तेन सन्धुक्ष्यमाणा सा रोहिणी कामरूपिणी।
प्रवृद्धिमगमच्छ्रेष्ठा प्राणतश्च सुदर्शना॥ 13-120-14(86116)
सिराविमुक्तपार्श्वान्ता विपुलां कान्तिमुद्वहत्।
श्यामपार्श्वान्तपृष्ठा सा सुरभिर्मधुपिङ्गला॥ 13-120-15(86117)
बृहती सूक्ष्मरोमान्ता रूपोदग्रा तनुत्वचा।
कृष्णपुच्छा श्वेतवक्त्रा समवृत्तपयोधरा॥ 13-120-16(86118)
पृष्ठोन्नता पूर्वनता शङ्कुकर्णी सुलोचना।
दीर्घजिह्वा ह्रस्वशृङ्गी सम्पूर्णदशनान्तरा॥ 13-120-17(86119)
मांसाधिकगलान्ता सा प्रसन्ना शुभदर्शना।
नित्यं शमयुता स्निग्धा सम्पूर्णोदात्तनिस्वना॥ 13-120-18(86120)
प्राजापत्यैर्गवां नित्यं प्रशस्तैर्लक्षणैर्युता।
यौवनस्थेव वनिता शुशुभे रूपशोभया॥ 13-120-19(86121)
वृषेणोपगता सा तु कल्या मधुरदर्शना।
मिथुनं जनयामास तुल्यरूपमिवात्मनः॥ 13-120-20(86122)
संवर्धयामास स तां सवत्सां भार्गवो मुनिः।
तयोः प्रजाधिसंसर्गात्सहस्रं च गवामभूत्॥ 13-120-21(86123)
गवां जातिसहस्राणि सम्भूतानि परस्परम्।
ऋषभाणां च राजेन्द्र नैवान्तः प्रतिदृश्यते॥ 13-120-22(86124)
तैराश्रमपदं रम्यमरण्यं चैव सर्वशः।
समाकुलं समभवन्मेघैरिव नभस्थलम्॥ 13-120-23(86125)
कानि चित्पद्मवर्णानि किंशुकाभानि कानिचित्।
रुक्मवर्णानि चान्यानि चन्द्रांशुसदृशानि च॥ 13-120-24(86126)
तथा राजतवर्णानि कानिचिल्लोहितानि वै।
नीललोहितताम्राणि कृष्णानि कपिलानि च।
नानारागविचित्राणि यूथानि कुलयूथप॥ 13-120-25(86127)
न च क्षीरं सुतस्नेहाद्वत्सानामुपजीवति।
भार्गवः केवलं चासीद्गवां प्राणायने रतः॥ 13-120-26(86128)
तथा शुश्रूषतस्तस्य गवां हितमवेक्षतः।
व्यतीयात्सुमाहान्कालो वत्सोच्छिष्टेन वर्ततः॥ 13-120-27(86129)
क्षुत्पिपासापरिश्रान्तः सततं प्रस्रवं गवाम्।
वत्सैरुच्छिष्टमुदितं बहुक्षीरतया बहु॥ 13-120-28(86130)
पीतवांस्तेन नामास्य फेनपेत्यभिविश्रुतम्।
गौतमस्याभिनिष्पन्नमेवं नाम युधिष्ठिर॥ ॥ 13-120-29(86131)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः॥ 120 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-120-7 कूलहेति पुराणेष्विति ट.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|